हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 102 – युद्धकाण्ड द्व्युत्तरशततमः सर्गः (१०२)
॥ लक्ष्मणसञ्जीवनम् ॥
शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा ।
लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ॥ १ ॥
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।
विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् ॥ २ ॥
एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ ।
सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ ३ ॥
शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम ।
पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥ ४ ॥
अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।
यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ॥ ५ ॥
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।
सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ॥ ६ ॥
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ।
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ॥ ७ ॥
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।
विनिष्टनन्तं दुःखार्थं मर्मण्यभिहतं भृशम् ॥ ८ ॥
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् ।
दुःखेन महताऽऽविष्टो ध्यानशोकपरायणः ॥ ९ ॥
परं विषादमापन्नो विललापाकुलेन्द्रियः ।
न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ॥ १० ॥
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ।
किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ॥ ११ ॥
यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ।
देशे देशे कलत्राणि देशे देशे च बान्धवाः ॥ १२ ॥
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।
इत्येवं विलपन्तं तं शोकविह्वलितेन्द्रियम् ॥ १३ ॥
विवेष्टमानं करुणमुच्छ्वसन्तं पुनः पुनः ।
राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् ॥ १४ ॥
न मृतोऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः ।
न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ॥ १५ ॥
सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ।
पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ॥ १६ ॥
एवं न विद्यते रूपं गतासूनां विशाम्पते ।
दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीदृशम् ॥ १७ ॥
नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ।
मा विषादं कृथा वीर सप्राणोऽयमरिन्दमः ॥ १८ ॥
आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ॥ १९ ॥
एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।
हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ॥ २० ॥
सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।
पूर्वं ते कथितो योसौ वीर जाम्बवता शुभः ॥ २१ ॥
दक्षिणे शिखरे तस्य जातमोषधिमानय ।
विशल्यकरणीं नाम विशल्यकरणीं शुभाम् ॥ २२ ॥
सवर्णकरणीं चापि तथा सञ्जीवनीमपि ।
सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ॥ २३ ॥
सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ।
इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् ॥ २४ ॥
चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधिम् ।
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः ॥ २५ ॥
इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ।
अस्मिन्हि शिखरे जातामोषधीं तां सुखावहाम् ॥ २६ ॥
प्रतर्केणावगच्छामि सुषेणोऽप्येवमब्रवीत् ।
अगृह्य यदि गच्छामि विशल्यकरणीमहम् ॥ २७ ॥
कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ।
इति सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः ॥ २८ ॥
आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ।
फुल्लनानातरुगणं समुत्पाट्य महाबलः ॥ २९ ॥
गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ।
स नीलमिव जीमूतं तोयपूर्णं नभःस्थलात् ॥ ३० ॥
आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः ।
समागम्य महावेगः संन्यस्य शिखरं गिरेः ॥ ३१ ॥
विश्रम्य किञ्चिद्धनुमान्सुषेणमिदमब्रवीत् ।
ओषधिं नावगच्छामि तामहं हरिपुङ्गव ॥ ३२ ॥
तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ।
एवं कथयमानं तं प्रशस्य पवनात्मजम् ॥ ३३ ॥
सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ।
विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः ॥ ३४ ॥
दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ।
ततः सङ्क्षोदयित्वा तामोषधीं वानरोत्तमः ॥ ३५ ॥
लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ।
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ॥ ३६ ॥
विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ।
तमुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ॥ ३७ ॥
साधुसाध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ।
एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ॥ ३८ ॥
सस्वजे स्नेहगाढं च बाष्पपार्याकुलेक्षणः ।
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ॥ ३९ ॥
दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् ।
न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण ॥ ४० ॥
को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ।
इत्येवं वदतस्तस्य राघवस्य महात्मनः ॥ ४१ ॥
खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ।
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ॥ ४२ ॥
लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ।
न हि प्रतिज्ञां कुर्वन्ति वितथां साधवोऽनघ ॥ ४३ ॥
लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ।
नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ ॥ ४४ ॥
वधेन रावणस्याद्य प्रतिज्ञामनुपालय ।
न जीवन्यास्यते शत्रुस्तव बाणपथं गतः ॥ ४५ ॥
नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ।
अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।
यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ ४६ ॥
यदि वधमिच्छसि रावणस्य सङ्ख्ये
यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् ।
यदि तव राजवरात्मजाभिलाषः
कुरु च वचो मम शीघ्रमद्य वीर ॥ ४७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्युत्तरशततमः सर्गः ॥ १०२ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.